पारमहंस्य-मीमांसा

नमामि शिवमात्मानमद्वैतानन्दतुन्दिलम्।
सच्चिदेकं जगद्रूपं नीरूपं परमार्थदम्।।१।।

ओंकारलक्षितं देवमवाक्यगं च वाक्यगम्।
गुर्वात्मेशाविभागेन स्थितं सर्वविभागगम्।।२।।

यथाधिकारभेदेन यथाक्रमो यथास्थितिः।
वेदार्थो विदितो येन तस्मै श्रीगुरवे नमः।।३।।

व्यक्तं गुह्यातिगुह्यं यद् यस्य सहजलीलया।
निगमागमवेत्तारं तारं तं च नमाम्यहम।।४।।

यतेः परमहंसस्य यो धर्म्मः पारमार्थिकः।
ज्ञानानन्द-सरस्वत्या तदुच्यते विवेकतः।।५

ज्ञानाङ्गत्वेन सन्न्यासः मोक्षे भवति कारणम्।
सन्न्यासेन विना ब्रह्मज्ञानं नैव फलायते।।६

सन्न्यसेद् वटुको वाऽपि सन्न्यसेद्वा गृहादपि।
वनाद्वा सन्न्यसेद्विद्वान् तत्त्वजिज्ञासयाऽथवा।।७।।

इहामूत्रार्थभोगेषु दोषान्पश्यति सर्वतः।
कर्म च तत्फलं त्यक्त्वा तदा भवति भिक्षुकः।।८।।